वांछित मन्त्र चुनें
देवता: पवमानः सोमः ऋषि: कविः छन्द: जगती स्वर: निषादः

गो॒जिन्न॒: सोमो॑ रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वते सहस्र॒जित् । यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि॑ष्ठं द्र॒प्सम॑रु॒णं म॑यो॒भुव॑म् ॥

अंग्रेज़ी लिप्यंतरण

gojin naḥ somo rathajid dhiraṇyajit svarjid abjit pavate sahasrajit | yaṁ devāsaś cakrire pītaye madaṁ svādiṣṭhaṁ drapsam aruṇam mayobhuvam ||

पद पाठ

गो॒ऽजित् । नः॒ । सोमः॑ । र॒थ॒ऽजित् । हि॒र॒ण्य॒ऽजित् । स्वः॒ऽजित् । अ॒प्ऽजित् । प॒व॒ते॒ । स॒ह॒स्र॒ऽजित् । यम् । दे॒वासः॑ । च॒क्रि॒रे । पी॒तये॑ । मद॑म् । स्वादि॑ष्ठम् । द्र॒प्सम् । अ॒रु॒णम् । म॒यः॒ऽभुव॑म् ॥ ९.७८.४

ऋग्वेद » मण्डल:9» सूक्त:78» मन्त्र:4 | अष्टक:7» अध्याय:3» वर्ग:3» मन्त्र:4 | मण्डल:9» अनुवाक:4» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोमः) परमात्मा (गोजित्) सब प्रकार की सूक्ष्म शक्तियों को जीतनेवाला है। तथा (रथजित्) बड़े से बड़े वेगवाले पदार्थ को जीतनेवाला है और (हिरण्यजित्) बड़ी-बड़ी शोभाओं को जीतनेवाला है। तथा (स्वर्जित्) सब सुखों को जीतनेवाला है और (अब्जित्) बड़े-बड़े वेग को जीतनेवाला है। तथा (सहस्रजित्) अनन्त पदार्थों का जीतनेवाला है। (यम्) जिस (मदम्) आह्लादक (स्वादिष्ठम्) ब्रह्मानन्द देनेवाले (द्रप्सम्) रसस्वरूप (अरुणम्) प्रकाशस्वरूप (मयोभुवम्) सुख देनेवाले परमात्मा का (देवासः) विद्वद्गण (नः) हमारी (पीतये) तृप्ति के लिये (चक्रिरे) व्याख्यान करते हैं ॥४॥
भावार्थभाषाः - परमात्मा के आगे इस संसार की सब शक्तियें तुच्छ हैं अर्थात् वह सर्वविजयी है। उसी से विद्वान् लोग नित्य सुख की प्रार्थना करते हैं ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोमः) परमेश्वरः (गोजित्) नानाविधसूक्ष्मातिसूक्ष्म- शक्तिजेतास्ति। तथा (रथजित्) महावेगवन्तमपि पदार्थं जयति। अथ च (हिरण्यजित्) महतीमपि शोभामभिभवति। तथा (स्वर्जित्) सकलसुख-विजयकर्तास्ति तथा (अब्जित्) महान्तमपि वेगं विजयते अथ च (सहस्रजित्) असङ्ख्यवस्तुविजेतास्ति। (यम्) इमम् (मदम्) आह्लादकं (स्वादिष्ठम्) ब्रह्मानन्दप्रदं (द्रप्सम्) रसस्वरूपं (अरुणम्) प्रकाशरूपं (मयोभुवम्) सुखदं परमात्मानं (देवासः) दिव्यगुणवन्तो विद्वज्जनाः (नः) अस्माकं (पीतये) तृप्तये (चक्रिरे) व्याख्यानं कुर्वते ॥४॥